Audio

Komunikat o błędzie

User warning: The following module is missing from the file system: flowplayer. In order to fix this, put the module back in its original location. For more information, see the documentation page. w _drupal_trigger_error_with_delayed_logging() (linia 1128 z /home/yogesh/domains/sanskryt.eu/public_html/includes/bootstrap.inc).

W domu najlepiej

W domu najlepiej. Bajka o piesku Chitranga.
अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः प्रतिवसति स्म। एकदा महद्दुर्भिक्षमभवत्। अन्नाभावेन सर्वापि सारमेयजतिर्निषकुलतां गच्छति। अत्रान्तरे स चित्राङ्गः क्षुत्क्षामकण्ठः सुभिक्षं श्रुत्वान्यदेशं गतः। तत्रैकस्मिन्गृहे शिथिलगृहिणीप्रसादेन तृप्तिं गच्छति। परं बहिर्निर्गतोऽन्यैः सारमेयैश्चतुर्दिशं दंष्ट्राभिर्विदार्यते। ततस्तेन विचिन्ततम्। अहो वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते न कोऽपि युद्धं करोति। तत्स्वदेशं गच्छामि। इत्यवधार्य तथाकरोत्। अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः। भोमित्रश्चित्राङ्ग कथयास्माकं देशान्तरवार्त्ताम्। कीदृग्देशः। किंचेष्टितो लोक इति। स अाह। किं कथ्यते देशस्य विषये।

सुभक्ष्याणि विचित्राणि शिथिलश्चैव योषितः।
एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते॥

audio: