संस्कृतभाषायै समर्पिते एतस्मिन्  पाठ्यपटले- पृष्ठे सर्वेषां स्वागतम् । क्रमशः संस्कृतपाठनाय सामग्री, भारतीयसंस्कृतिविषये लेखाः, पोल्स्कीयभाषयानुवादाः, MP3 मुद्रिताः कथाः चात्र भविष्यन्ति ।

अत्र भिन्न भिन्नाक्षराणां प्रयोगः कृतः अतः यदि पृष्ठस्य प्रदर्शने कापि बाधा स्यात् तर्हि अवश्यं सूचनीयोऽहम् ।

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।


yā kundendu tuṣāra-hāra-dhavalā yā śubhra-vastrāvṛtā
yā vīṇā-vara-daṇḍa-maṇḍita-karā yā śveta-padmāsanā
yā brahmācyuta-śaṅkara-prabhṛtibhir devaiḥ sadā vanditā
sā māṁ pātu sarasvatī bhagavatī niḥśeṣa-jāḍyāpahā


Ta, co biała jak jaśmin, księżyc i perły,
spowita w biel śnieżną szat,
W dłoni trzyma gryf lutni przedniej, za tron ma
białego lotosu kwiat,
Której bóstwa: Aczjuta, Brahma, Siankara
wiek wieków oddają cześć,
Ta Bogini niech strzeże mnie, Saraswati,
niewiedzy kładąca kres.